हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Ayodhya Kanda Sarga 82 – अयोध्याकाण्ड द्व्यशीतितमः सर्गः (८२)


॥ सेनाप्रस्थापनम् ॥

तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् ।
ददर्श बुद्धि सम्पन्नः पूर्णचन्द्रो निशामिव ॥ १ ॥

आसनानि यथान्यायमार्याणां विशतां तदा ।
वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा ॥ २ ॥

सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।
अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥ ३ ॥

राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।
इदं पुरोहितः वाक्यं भरतं मृदु चाब्रवीत् ॥ ४ ॥

तात राजा दशरथः स्वर्गतर्धर्ममाचरन् ।
धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव ॥ ५ ॥

रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् ।
नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥ ६ ॥

पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् ।
तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय ॥ ७ ॥

उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः ।
कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते ॥ ८ ॥

तच्छ्रुत्वा भरतः वाक्यं शोकेनाभिपरिप्लुतः ।
जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया ॥ ९ ॥

स बाष्प कलया वाचा कलहंस स्वरः युवा ।
विललाप सभामध्ये जगर्हे च पुरोहितम् ॥ १० ॥

चरित ब्रह्मचर्यस्य विद्यास्नातस्य धीमतः ।
धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ॥ ११ ॥

कथं दशरथाज्ञातः भवेद्राज्यापहारकः ।
राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि ॥ १२ ॥

ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः ।
लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा ॥ १३ ॥

अनार्य जुष्टमस्वर्ग्यं कुर्यां पापमहं यदि ।
इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ॥ १४ ॥

यद्धि मात्रा कृतं पापं नाहं तदपिरोचये ।
इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ॥ १५ ॥

राममेवानुगच्छामि स राजा द्विपदां वरः ।
त्रयाणामपि लोकानां राज्यमर्हति राघवो ॥ १६ ॥

तद्वाक्यं धर्मसम्युक्तं श्रुत्वा सर्वे सभासदः ।
हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः ॥ १७ ॥

यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् ।
वने तत्रैव वत्स्यामि यथाऽर्यो लक्ष्मणस्तथा ॥ १८ ॥

सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् ।
समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम् ॥ १९ ॥

विष्टिकर्मान्तिकाः सर्वे मार्गशोधकरक्षकाः ।
प्रस्थापिता मया पूर्वं यात्राऽपि मम रोचते ॥ २० ॥

एवमुक्त्वा तु धर्मात्मा भरतः भ्रातृवत्सलः ।
समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् ॥ २१ ॥

तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् ।
यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥ २२ ॥

एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना ।
हृष्टस्तदादिशत्सर्वं यथासन्दिष्टमिष्टवत् ॥ २३ ॥

ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च ।
श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने ॥ २४ ॥

ततः योधाङ्गनाः सर्वा भर्त्रून् सर्वान् गृहे गृहे ।
यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः ॥ २५ ॥

ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च महाजवैः ।
सहयोधैः बलाध्यक्षाः बलं सर्वमचोदयन् ॥ २६ ॥

सज्जं तु तद्बलं दृष्ट्वा भरतः गुरुसन्निधौ ।
रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् ॥ २७ ॥

भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षितः ।
रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ॥ २८ ॥

स राघवः सत्यधृतिः प्रतापवान्
ब्रुवन् सुयुक्तं दृढसत्यविक्रमः ।
गुरुं महारण्यगतं यशस्विनम्
प्रसादयिष्यन्भरतोऽब्रवीत्तदा ॥ २९ ॥

तूर्णं समुत्थाय सुमन्त्र गच्छ
बलस्य योगाय बलप्रधानान् ।
आनेतुमिच्छामि हि तं वनस्थम्
प्रसाद्य रामं जगतः हिताय ॥ ३० ॥

स सूतपुत्रः भरतेन सम्यक्
आज्ञापितः सम्परिपूर्णकामः ।
शशास सर्वान्प्रकृति प्रधानान्
बलस्य मुख्यांश्च सुहृज्जनं च ॥ ३१ ॥

ततः समुत्थाय कुले कुले ते
राजन्यवैश्या वृषलाश्च विप्राः ।
अयूयुजन्नुष्ट्ररथान् खरांश्च
नागान् हयांश्चैव कुलप्रसूतान् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥ ८२ ॥


www.sanatanadharm.com